Class 8 Sanskrit chapter 11 question answer सावित्री बाई फुले

Follow US On 🥰
WhatsApp Group Join Now Telegram Group Join Now

कक्षा 8 संस्कृत पाठ 11 प्रश्न उत्तर: सावित्री बाई फुले class 8 प्रश्न उत्तर

TextbookNcert
ClassClass 8
SubjectSanskrit
ChapterChapter 11
Chapter Nameसावित्री बाई फुले प्रश्न उत्तर
CategoryNcert Solutions
MediumHindi

क्या आप Class 8 Sanskrit chapter 11 question answer ढूंढ रहे हैं? अब आप यहां से सावित्री बाई फुले class 8 प्रश्न उत्तर Download कर सकते हैं।

प्रश्न 1: एकपदेन उत्तरत-
(क) कीदृशीनां कुरीतीनां सावित्री मुखर विरोधम् अकरोत्?
(ख) के कूपात् जलोद्धरणम् अवारयन्?
(ग) का स्वदृढनिश्चयात् न विचलति?
(घ) विधवानां शिरोमुण्डनस्य निराकरणाय सा कैः मिलिता?
(ङ) सी कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?

उत्तर 1:(क) सामाजिककुरीतीनाम्।
(ख) उच्चवर्गीयाः
(ग) सा (सावित्री बाई फुले)
(घ) नापितैः।
(ङ) कन्यानाम्।

प्रश्न 2: पूर्णवाक्येन उत्तरत-
(क) किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?
(ख) सावित्रीबाईफुलेमहोदयायाः पित्रोः नाम किमासीत्?
(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?
(घ) जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?
(ङ) कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?
(च) सत्यशोधकमण्डलस्य उद्देश्य किमासीत्?
(छ) तस्याः द्वयोः काव्यसङ्कलनयोः नामनो के?

उत्तर 2: (क) सामाजिकात्याचारं सहमानापि सावित्रीबाई स्वदृढनिश्चयात् न विचलति।
(ख) सावित्रीबाईफुलेमहोदयायाः पित्रोः नाम आसीत् खंडोजी इति।
(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा स्वपत्युः स्त्रीशिक्षासमर्थनेन उत्साहं प्राप्तवती।
(घ) जलं पातुं निवार्यमाणाः नारीः सा निजगृहं नीतवती। एवञ्च, सा स्वगृहस्थं तडागं दर्शयित्वा यथेष्टं जलं नेतुम् अकथयत्।
(ङ) “महिला सेवामण्डल” “शिशुहत्या प्रतिबन्धक गृह” इत्यादीनां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्वपूर्णम् आसीत्।
(च) सत्यशोधकमण्डलस्य उद्देश्यमासीत् उत्पीडितानां समुदयानां स्वाधिकारान् प्रति जागरणम्।
(छ) तस्याः काव्यसंकलनद्वयं वर्तते “काव्यफुले” “सुबोधरत्नाकर” चेति।

प्रश्न 3: रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत-
(क) सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।
(ख) सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।
(ग) सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।
(घ) तया मनुष्याणां समानतायाः स्वन्त्रतायाश्च पक्षः सर्वदा समर्थितः।
(ङ) साहित्यरचनया अपि सावित्री महीयते।

उत्तर 3: (क) सावित्रीबाई काभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म?
(ख) सा कस्य प्रथमा महिला शिक्षिका आसीत्?
(ग) सा स्वपतिना सह कासाम् कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
(घ) तया केषाम् समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थिनः?
(ङ) साहित्यरचनया अपि का महीयते?

प्रश्न 4: यथानिर्देशमुत्तरत-
(क), इदं चित्रं पाठशालायाः वर्तते-अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?
(ख) तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति-अस्मिन् वाक्ये विशेष्यपदं किम्?
(ग) अपि यूयमिमां महिला जागीथ-अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्तम्?
(घ) सा ताः स्त्रियः निजगृहं नीतवती-अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(ङ) शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म-अत्रे ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि न इति लिखत?

उत्तर 4: (क) इदं चित्रं पाठशालाया वर्तते – अत्र ’वर्तते’ इति क्रियापदस्य कर्तृपदं भवति ’वर्तनम्’ इति।
(ख) तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्स्मिन् वाक्ये चिशेषणं भवति ’स्वकीयम्’ इति।
(ग) अपि यूयमिमां महिलां जानीथ – अस्मिन् वाक्ये ’यूयम्’ इति पदं अस्मभ्यः प्रयुक्तम्।
(घ) सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ’सा’ इति सर्वनामपदं सावित्रीवाई इत्यस्यै प्रयुक्तम्।
(ङ) शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ’नार्यः’ इति पदस्य विशेषणपदानि चत्वारि सन्ति। तानि च – शीर्णवस्त्रावृताः इति, तथाकथिताः इति, निम्नजातीयाः इति, काश्चित् इति च।

प्रश्न 5: अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
(क) स्वकीयम् – …………..
(ख) सविनोदम् – …………..
(ग) सक्रिया – …………..
(घ) प्रदेशस्य – …………..
(ङ) मुखरम् – …………..
(च) सर्वथा – …………..

उत्तर 5: (क) सिया स्वकीयम् उत्तरं शिक्षिकायै दर्शयति।
(ख) सविनोदम् गानं श्रुत्वा सर्वे छात्राः हर्षिताः अभवन्।
(ग) विद्यालये सक्रिया छात्राः विविधासु प्रतियोगितासु भागं गृह्णन्ति।
(घ) अस्य प्रदेशस्य प्राकृतिकः सौन्दर्यम् अतीव मनोहरम् अस्ति।
(ङ) सभा मध्ये सः मुखरम् भाषणं प्रदत्तवान्।
(च) अस्मिन् विषये सर्वथा मम सहमति अस्ति।

प्रश्न 6: (अ) अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
(क) उपरि – …………..
(ख) आदानम् – …………..
(ग) परकीयम् – …………..
(घ) विषमता – …………..
(ङ) व्यक्तिगतम् – …………..
(च) आरोहः – …………..

उत्तर 6: (क) बालकः गृहम् उपरि आरोहितः।
(ख) रक्तस्य आदानम् चिकित्सायै आवश्यकम् अस्ति।
(ग) परकीयम् सम्पत्तिं हरणं नीतिसंगतम् न अस्ति।
(घ) समाजे आर्थिकविषमता नश्यतु इति सर्वे इच्छन्ति।
(ङ) व्यक्तिगतम् मतं सर्वदा सम्माननीयम् अस्ति।
(च) पर्वतारोहकः पर्वतस्य आरोहं सम्पादितवान्।

प्रश्न 6: (आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत-(निम्नलिखित पदों के समानार्थक पद पाठ से चुनकर लिखिए-)

मार्गे,            अविरतम्,            अध्यापने,            अवदानम्,             यथेष्टम्,             मनसि

(क) शिक्षणे – ………………………
(ख) पथि – ……………………………
(ग) हृदये। – ………………………………
(घ) इच्छानुसारम् – …………………………
(ङ) योगदानम् – ………………………………
(च) निरन्तरम् – …………………………………

उत्तर 6: (क) शिक्षणे – अध्यापने
(ख) पथि – मार्गे
(ग) हृदये – मनसि
(घ) इच्छानुसारम् -यथेष्टम्
(ङ) योगदानम् – अवदानम्।
(च) निरन्तरम् – अविरतम्

प्रश्न 7: (अ) अधोलिखितानां पदानां लिङ्ग, विभक्ति, वचनं च लिखत–

 पदानिलिङ्गम्विभक्तिःवचनम्
(क)धूलिम्……..……..……..
(ख)नाम्नि……..……..……..
(ग)      अपरः……..……..……..
(घ)कन्यानाम्……..……..……..
(ङ)सहभागिता……..……..……..
(च)नापितैः……..……..……..

उत्तर 7:

पदानिलिङ्गम्विभक्तिःवचनम्
(क)धूलिम्स्त्रीलिङ्गम्द्वितीयाएकवचनम्
(ख)नाम्निनपुंसकलिङ्गम्सप्तमीएकवचनम्
(ग)      अपरःपुँल्लिङ्गम्प्रथमाएकवचनम्
(घ)कन्यानाम्स्त्रीलिङ्गम्षष्ठीबहुवचनम्
(ङ)सहभागितास्त्रीलिङ्गम्प्रथमाएकवचनम्
(च)नापितैःपुँल्लिङ्गम्तृतीयाबहुवचनम्

प्रश्न 7: (आ) उदाहरणमनुसृत्य निर्देशानुसारं लकारपरिवर्तनं कुरुत-
यथा- सा शिक्षिका अस्ति। (लङ्लकारः) सो शिक्षिका आसीत्।
(क) सा अध्यापने संलग्न भवति। (लूटलकार:)
(ख) सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकार:)
(ग) महिलाः तडागात् जलं नयन्ति। (लोट्लकार:)
(घ) वयं प्रतिदिनं पाठं पठामः। (विधिलिङ)
(ङ) किं यूयं विद्यालयं गच्छथ? (लुट्लकार:)
(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति। (लङ्लकारः)

उत्तर 7: (क) सा अध्यापने संलग्ना भविष्यति।
(ख) सः त्रयोदशवर्षकल्पः आसीत्।
(ग) महिलाः तडागात् जलम् नयन्तु।
(घ) वयं प्रतिदिनं पाठम् पठेम।
(ङ) किं यूयं विद्यालयम् गमिष्यथ?
(च) ते बालकाः विद्यालयात् गृहम् अगच्छन्।

यह भी देखें ✯ कक्षा 8

💞 SHARING IS CARING 💞
Ncert Books PDF

English Medium

Hindi Medium

Ncert Solutions and Question Answer

English Medium

Hindi Medium

Revision Notes

English Medium

Hindi Medium

Related Chapters